|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.40. अध्यायः 040
Mahabharata - Karna Parva - Chapter Topics
दुर्योधनेन सेनाप्रोत्साहनम्॥ 1 ॥ भीमेन दुर्योधनपराजयपूर्वकं गजानीकवधः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-40-0x(4944)(56843)
दुर्योधनस्ततः कर्णमुपेत्य भरतर्षभ।
अब्रवीन्मद्रराजं च तथैवान्यान्महारथान्॥ 8-40-1(56844)
यदृच्छयाऽयमव्यग्रो धर्मः परमकः सखा।
सुखिनः क्षत्रियाः कर्ण लभन्ते युद्धमीदृशम्॥ 8-40-2(56845)
यादृशं क्षत्रियैः शूरैः शूराणां दीव्यतां युधि।
इष्टं भवति राधेय तदिदं समुपस्थितम्॥ 8-40-3(56846)
हत्वा तु पाण्डवान्युद्धे स्थिरामुर्वीं प्रशासथ।
निहता वा परैर्युद्धे वीरलोकानवाप्स्यथ॥ 8-40-4(56847)
दुर्योधनस्य वचनं श्रुत्वा तत्क्षत्रियर्षभाः।
सिंहनादानुदक्रोशन्वादित्राणि च जघ्निरे॥ 8-40-5(56848)
तस्मिन्प्रमुदिते सैन्ये त्वदीये भरतर्षभ।
हर्षयंस्तावकान्योधान्द्रौणिर्विचनमब्रवीत्॥ 8-40-6(56849)
प्रत्यक्षं सर्वसैन्यानां भवतां चापि पश्यताम्।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः॥ 8-40-7(56850)
स तेनाहममर्षेण पित्रर्थे चापि भारत।
धृष्टद्युम्नमहत्वाऽहं न विमोक्ष्यामि दंशनम्॥ 8-40-8(56851)
कृत्वाऽनृतां प्रतिज्ञां वो नास्मि प्राप्ता महत्फलम्।
अर्जुनं भीमसेनं च यश्च मां प्रतियोत्स्यति।
सर्वांस्तान्प्रमथिष्यामि इति मे निश्चिता मतिः॥ 8-40-9(56852)
सञ्जय उवाच। 8-40-10x(4945)
एवमुक्ते ततः सर्वा हर्षिता भारती चमूः।
अभ्यवर्तत कौन्तेयांस्तथा तां चापि पाण्डवाः॥ 8-40-10(56853)
स सन्निपातो रथयूथपानां
महाहवे भारत लोभनीये।
जनक्षयः कालयुगान्तकल्पः
प्रावर्तताग्रे कुरुसृञ्जयानाम्॥ 8-40-11(56854)
ततः प्रवृत्ते युधि सम्प्रहारे
भूतानि सर्वाणि सदैवतानि।
आसन्समेतानि सहाप्सरोभि--
निरीक्षतीभिर्युधि वीरसङ्घान्॥ 8-40-12(56855)
दिव्यैश्च गन्धैः परमैश्च पुष्पै--
रन्यैश्च रत्नैर्विविधैर्नराग्र्याः।
रणेषु कर्मोद्वहताः प्रहृष्टा-
ननन्दयन्नप्सरसः प्रहृष्टाः॥ 8-40-13(56856)
समीरणस्तांस्तु निषेव्य गन्धा--
न्निषेवते तानपि योधमुख्यान्।
निषेव्यमाणास्त्वनिलेन योधाः
परस्परं चुक्रुशुराजिमध्ये॥ 8-40-14(56857)
तथा तु तस्मिंस्तुमुले प्रवृत्ते
दुर्योधनः क्रोधममृष्यमाणः।
`अवेभ्य भीमं बलमध्यसंस्थः
समार्पयत्क्षुद्रकाणां शतेन॥ 8-40-15(56858)
दुःशासनश्चित्रसेनश्च वीर--
स्तथोलूकः कितवः सौबलश्च।
गजानीकैः सर्वतो भीमसेनं
तथाविषक्तं सहसैवाभ्यगच्छन्॥ 8-40-16(56859)
तमापतन्तं सम्प्रेक्ष्य गजानीकं वृकोदरः।
दुर्योधनं महाबाहुः शरवर्षैरवाकिरत्॥ 8-40-17(56860)
दुर्योधनं ततो भीमः सायकैर्वज्रसन्निभैः।
पाण्डवो विमुखीकृत्य गजानभ्यद्रवद्बली॥ 8-40-18(56861)
ततः पावकसङ्काशैर्भीमबाणैरवक्रगैः।
शलभैरिव नागांस्तानर्दयामास पाण्डवः॥ 8-40-19(56862)
ततः कुञ्जरयूथानि भीमसेनो महाबलः।
व्यधमन्निशितैर्बाणैर्महावातो घनानिव॥ 8-40-20(56863)
नित्यमत्ताश्च मातङ्गाः शूरैर्मत्तैरधिष्ठिताः।
आरोहकैर्महामात्रैस्तोमराङ्कुरापाणिभिः॥ 8-40-21(56864)
सुवर्णजालैः प्रच्छन्ना मणिजालैश्च कुञ्जराः।
रूप्यजाम्बूनदाभासः क्षुरमालाभ्यलङ्कृताः॥ 8-40-22(56865)
वध्यमानाः शरै राजन्भीमसेनेन ते गजाः।
विभिन्नहृदयाः केचित्तत्रैवाभ्यपतन्भुवि॥ 8-40-23(56866)
निपतद्भिर्महावेगैर्हेमभाण्डविभूषितैः।
अशोभत महाराज धातुचित्रैरिवाचलैः॥ 8-40-24(56867)
दीप्ताभरणवद्भिश्च गजपृष्ठनिपातितैः।
सङ्गरः शुशुभे राजन्क्षीणपुण्यैरिवामरैः॥ 8-40-25(56868)
महापरिघसङ्काशौ चन्दनागरुरूषितौ।
अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ॥ 8-40-26(56869)
तस्य ज्यातलनिर्घोषमस्यतः सव्यदक्षिणम्।
तं श्रुत्वाऽभ्यद्रवन्नागा भीमसेनभयार्दिताः॥ 8-40-27(56870)
तस्य भीमस्य तत्कर्म राजन्नेकस्य धीमतः।
अपश्याम महाराज तद्भूतमिवाभवत्'॥ ॥ 8-40-28(56871)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चत्वारिंशोऽध्यायः॥ 40 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|